logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolआख्याषष्टिः- AkyashashtihOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Akyashashtih of Sridhara Ayyaval in Devanagari script श्रीशिवाय परस्मै ब्रह्मणे नमः ॥ श्रीधर स्तुतिमणिमाला ॥ ॥आख्याषष्टिः प्रारम्भः ॥ शिवं परमकल्याणं अव्याज करुणानिधिम् । तदाख्यां सौख्यजननीं वन्दे वक्त्रर्तिहारिणीम् ॥१ शिवाख्ये नो जाने शिवमितरदेवानपि जन- न्ये क्कामी क्कासावहमहह दिष्ट्या तु भवतीम् । समीक्षे मत्सर्वश्रममुषमिहामूकसुलभां स्वलब्धृस्वाधीमाखिलभुवन साम्राज्य विभवाम् ॥२ स्वकीयैः स्त्रोतोभिर्जगदखिलमाक्रमति कलौ निमग्रास्ते वर्णाश्रमनियमधर्माः स्फुटमिदम् । प्रलीना ध्यानादिर्भजनसृतिरेका पुनरये परित्रातुं विश्वं पुरभिदभिधे त्वं विजयसे ॥३ शिवाख्ये वाच्योऽर्थस्तव हिपुरभिद्वास्तु मुरभित् स लोकानामीष्टामवतु च सुखेन श्रितजनम् । अलं नाहं तस्यानुसृतिषु स मा भूदपि च मे श्रितोऽहं त्वां यत्त्वद्भवति ममकल्याणि तदलम् ॥ ४ स्वयंभू दैत्यारि त्रिपुरमथनानीरितकृतः त्रिलोकी साम्राज्यं तदपि नयनादेशवशगम् । विधातुं तवद्भाजस्त्वमलमलघुस्ते हि महिमा महेशाख्ये वाचामतिसरणिमाचामतितराम् ॥५ कराळाद्यत् क्ष्वेळाज्जगदवितवानिन्दुमकुटः कृतान्ताद्दुर्दान्ताद्यदपि मुनिचूढामणिसुतम् । अनल्पैः किञ्जल्पैः तदिदमिदमवनीयस्य रसना- कृतत्वत्सेवायाश्चरितमभिधे मन्मथरिपोः ॥ ६ शतंसन्त्वाम्रायाश्शतमपि पुराणागमगणाः विहाय त्वामेते वितरितुमलं किं शिवधियम् । अशेषग्लानिं या हरतिं भवती तु श्रममृते सिवाख्ये मातस्तामितरनिरपेक्षा वितरति ॥ ७ त्रिणेत्रस्य ग्लानिस्त्रिपुरदनुजादीन् मुररिपोः दशग्रीवप्रष्ठानपि दलयितुं हन्त कियती । नियन्त्री या तेषां निखिलजगतोऽप्याशु दळय- स्यविद्यां निर्यत्नं निटिलनयनाख्ये जननि ताम् ॥ ८ भवत्याः पन्थानश्शतमखमुख श्रीभिरभितः सुधासारैस्सिक्ताः कुसुमसमवायैश्च निचिताः । क्रियन्ते निर्याहि स्मरभिदभिधे दीयत इतः करालम्बो जाग्रद्विनयभरया मुक्तिरमया ॥९ शिवाख्ये जिह्वायां वहति भवतीं यस्तमखिलं शरद्राकाचन्द्रद्युतिमसितकण्ठं त्रिणयनम् । विधून्मीलन्मौळिं विरचयसि केयं व्यसनिता विहन्तुं ते जीवेष्वहह शिवभावासुलभताम् ॥ १० समावक्षाणस्य स्मरभिदभिधे देवि भवति महो यस्यां यस्यां हरिति नयनान्तोऽवतरति । हरास्तस्यां तस्यामळिकनयनाश्चन्द्रमकुटाः शरज्ज्योत्स्रा गोरास्सहगिरिजयोद्यन्ति शतशः ॥ ११ शिवः कामं क्रोधाकुलमतिरजैषीत् त्वदनुगैः जितः कामः क्रोधोऽप्यथ मुनिकुमारं यमभयात् । शिवोऽरक्षीदेकं सयतनमिमे तद्भयहतो ऽखिलस्येक्षामात्राज्जितमिह शिवाख्ये त्वदनुगैः ॥ १२ चरन्तीं त्वच्छायां शशिवदुपवाराशि वसती त्यदोमुख्यासूक्तिष्वपि रसनया सङ्कलयतः । परागं ब्रह्माद्याः पदकलितमञ्चन्ति शिरसा शिवाख्ये त्वन्निष्ठेर्जितमिति किमम्बाद्भुतमिदम् ॥ १३ भवत्यां स्पृष्टायां बत पुरहाराख्ये रसनया कराळेन ग्रीवा भवति गरळेनास्य कलिता । दुताशेनाश्र्लिष्टो भवति च करोऽङ्गानि भुजगैः भवन्ति क्रान्तानि श्रितकुशलदा त्वं तु विदिता॥१४ दशायामन्त्यायां दळितबलदीनेन्द्रियततौ महेशाख्ये जिह्वां श्रवणमपि वा संश्रितवती । भवत्येकेवास्य प्रतिभवति भद्राय महते तदा केनान्येनोन्मिषतुकणिका वाप्युपकृतेः ॥ १५ मनागप्यस्पृष्टा गहनदहनेनेह विषया- भिधानेनानेन क्षितिधरसुतानेतुरभिधे । रमन्तं कामं ते कतिचिदधि कल्लोलितसुधा झरायां धारायां शिशिरशिशिरायां सुकृतिनः ॥ १६ वधूटीपुत्रादीन् वसुविसरमानम्र नृपति - च्छटाचूडारत्नच्छविकवचिताशां श्रियमपि । जहत्येके धन्या जगति मदनद्रोग्धुरभिधे विहारे सोत्कण्ठाविहतिरहिरे त्वल्लहरिषु ॥ १७ अजस्रं तन्वानाः श्वसितुमपि मामक्षममिमं कदा वा क्रामन्तु प्रतिहतकराळोपहतयः । पुरारातेराख्ये पुरभिदनुभूत्यूर्मिळसुख- प्रतिपेभध्वंस प्रबलहरयस्त्वल्लहरयः ॥१८ शिवाख्ये त्वात्स्रोतस्ततिषु विहृतिं बाधिषतमा ममाशक्त्यालस्यारतिगदनिहत्यार्द्याभभवाः । प्रकामं बाधन्तामितरमखिलं तेऽभित इमे प्रणामास्ते सन्तु प्रविरचय मत्काङ्कितमिदम् ॥ १९ किमन्यन्मन्यन्ते जगति न तृणायापि कतिचित् पदं मातश्शातक्रतवमपि वैरिञ्चमपि वा । प्रधावन्ति त्यक्त्वा दहनमिव तत् प्रत्युत् मनो - भवारातेराख्ये त्वदमृतरसास्वाद रसिकाः ॥२० दिवं क्षोणीं क्षोणीं दिवमपि निरिन्द्रं जगदिदं तथान्येन्द्रं वीतद्रुहिणमपि वान्यद्रुहिणकम् । प्रगल्भन्ते कर्तुं प्रसवविशिखद्रोग्धुरभिधे प्रपन्नास्त्वां शान्त्यापि तु सहजयोदास त इमे ॥२१ कना केऽपीशाख्ये त्वदमृतरसासार विसरैः जकत्कल्युत्तामज्वलतनलसान्त्या शिशिरताम् । नयन्तस्तन्वन्तस्समुचितफलस्याप्युपचितिं क्षमाभूषा भान्ति क्षपितहरिदुद्वेल तिमिराः ॥ २२ शिवाख्ये त्वद्वर्णद्वितयपरमाद्वैतरसिकाः प्रियप्राप्तौ शर्मप्रियसमुपलंभे शुचमपि । भयं वा दस्माच्चित् भयजनकतां कस्य च तथा न विन्दन्ते ब्रह्माद्यसुलभपरानन्द भरिताः ॥ २३ जनो धत्ते यो मां जगति रसनायां श्रवसि वा दिगीशा धाता वा दिशमपि तदीयां परुषया । द्दशा जातु द्रष्टुं किमलमिति कामध्रुगभिधे त्वदीयप्रस्थानध्वनिभरमिषात् गर्जसि मुहुः ॥ २४ निवन्धारस्तेऽमी मम नियतमात्मीयरसना भुवीति त्वं त्रासादिव कुसुमचापध्रुगभिधे । ओने लिने लेफ़्त् रपि द्रागेतेषा मयि सफलयन्ती विहरसे ॥२५ परित्यज्याशेषं जननि भवतीमेव भजतां त्वमेवेशानाख्ये त्वदभिलषितं दैवतवरम् । द्दशं तत्तन्मूत्यां श्रुतिमपि तदुक्तया सफलतां नयन्ती धत्से नन्ववधिविधुरां निर्वृतिधुराम् ॥ २६ श्रुता ये स्वधेनु त्रिदशतरुमुख्यास्त्वदनुग - नुगानां भ्रूवल्लीवलनवशगास्ते जगति तान् । तवौदार्ये मातर्धरणिधरजानेतुरभिधे कथङ्कारं तुल्यान् कथयतु सलज्जो यदि जनः ॥ २७ विधातुं सन्त्रातुं विलयमपि नेतुं जगदलं भवन्तोऽपीशाख्ये प्रशमसमुपेतास्त्वदनुगाः । उपेक्ष्या लोकस्यावमतसकलास्सन्ति जगति त्वयैवैके तुष्टास्तव खलु त एते रसविदः ॥ २८ शिवाख्ये त्वद्वर्णद्वितयमयि धत्ते श्रितवतां मुखे धर्मब्रह्मप्रमितिकर सर्वाक्षरगणम् । पदे धत्ते वेधःप्रभृतिविभवात्रात्र तु रतिः विनैषां त्वद्वर्णद्वितयमिह कोऽयं मधुरिमा ॥ २९ महेशाख्ये जिव्हाञ्चलकलनमात्रात्तनुभृतां समस्ताघच्छेत्रीं सकलसुखदात्रीं च भवतीम् । अवष्टभ्यैवाहुर्भगवति महाकारुणिकतां शिवस्यत्वां हित्वा कथयकतमो निर्वहतु ताम् ॥ ३० शिवाख्ये स्वाख्यासु त्रिपुरमथनः कैटभरिपुः तदीयान्यामूर्ती रघुपतिरपि त्वां समदधुः । अमीष्वाद्यस्यैव प्रभवति भवत्या व्यवहृतिः ददीयस्ताद्द्क्षस्सुकृतपरिपाको विजयते ॥ ३१ अशेषब्रह्माण्डविरतचरिताशेष दुरिता- न्यलं ते सन्तृप्तिं न हि घटयितुं तां घटयितुम् । मदीयैरेनोभिर्मदनमथनाख्ये बत यते ममागस्सोढव्यं तदिदमयि तुभ्यं नम इदम् ॥ ३२ अये जिह्वापीठे जननि समवस्थाप्य भवती ममाघौघं तुभ्यं मयि समुपहर्तुं व्यवसिते । तव स्मृत्यैवासौ बत कबळितः किन्नु करवै क्षमस्वेमं मन्तुं भगवति पुरां भेत्तुरभिधे ॥ ३३ निवेशी जिह्वायां निरवधिकपुण्योच्चयजुषां निसर्गप्राप्तस्ते निटिलनयनाख्ये भवतु तत् । निवेशं जिह्वायां मम यदि न धत्से जननि ते नितान्तं पापिष्ठोऽवित इति न सिद्ध्येन्ननु यशः ॥ ३४ शिवाख्ये मातस्त्वं ननु शशिवदित्यादिफणिति - च्छलादप्याविश्य श्रमभरमकस्मात्तनुभृताम् । हरस्येवं कर्तुं हरिरथ हरोवा स किमलं तदीयं माहात्म्यान्तरमपलपामस्तु न वयम् ॥ ३५ पितृभ्यां व्यक्तोऽसावहमतिदुरात्मेति गिरिजा - गिरिशाभ्यां त्यक्तो ननु जननि लोकेन च तथा । ममास्त्यन्या काचिज्जगति न गतिर्यामि शरणं शिवाख्ये त्वामेकामयिजहिहि वा मां बिभृहि वा ॥ ३६ परित्याज्यं सर्वेऽप्यभिदधति पापिष्ठमयि ते शिवाख्ये सङ्ग्राह्यस्स जयति तवैतत् समुचितम् । प्रपन्न त्वं किन्नोदयिनि गरले चामृतरसे पयोधेस्तत्राद्यग्रहणरसिकं तं प्रभुमणिम् ॥ ३७ ममाजस्रं दोषान् समुपघटयन्तोऽन्तररयो जयन्तीशः पशयन् हृदि वसति मद्यौस्थयमखिलम् । अथैवं सत्यागोऽखिलमपलपन्त्यम्ब बिभृषे कथं मामीशाख्ये कथय तव कःस्तौतु विभवम् ॥३८ स्फुटायां द्वारीशेतरमितरया साधु नयते यथा प्राप्यस्थानं सुहृदिह मनोजध्रुगभिधे । स्वकर्मादावीशेतरमिममखेदं शिवपदं तथा कल्याणि त्वं ननु कलयसि त्वत्कलनया ॥ ३९ स्वकर्मादावीशं जनमपि भवत्येव बिभृते विना त्वां तस्यापि स्वविरचित सद्गुण्यविरहात् । बुभूषोस्सर्वस्य त्वमसि तदुपास्या किमपरं त्वयास्ते लब्धात्मा भगवति शित्राख्ये सच शिवः ॥ ४० न कर्माध्वन्योऽहं भगवति न वा भक्ति पथिको- ऽस्म्युपादेयः कोऽपि स्फुरति गुणलेशोऽपि न मयि । असङ्ख्यातादोषाः किमत इह दौरात्म्यमितरत् ददम्ब त्वत्तोऽन्या न जगति शिवाख्ये मम गतिः ॥ ४१ सुतस्याख्यां नारायणगिरमुपादत्त यदजा- मिळस्तं तद्भीतास्तपनसुतदूताः प्रविजहुः । त्वमीशाख्ये पीतिं नयसि विमतांस्ते मुदमथा- नुगान्कारुण्यार्द्रास्त्वहह निखिले ते त्वदनुगाः ॥ ४२ सुरभिशरभिदाख्ये सुन्दरे त्वज्झरेऽस्मिन् निरुपहति विहर्तुं नित्यमुत्ग्रीविताशम् । अपनयसि किमेवं हन्त मामन्तरायैः मनसि न कुरु मातर्मामकान् देविमन्तून् ॥ ४३ किमकुरुत मुदे मे कर्मवर्णाश्रमार्हं किमभजत मदङ्घ्रिं किं व्यधादेष को वा । इति निजसमितौ मामीक्षमाणे गिरीशे मदनुग इति मातर्गर्ज धीरं शिवाख्ये ॥ ४४ जगति वशिगिरा त्वध्वत्ययेनोल्लसन्त्या जननि परिगृहीतांस्त्वं स्वकर्मादि निष्ठान् । न किमवसि शिवाख्ये हा तया नाद्दतं मा- मवितुमिह विळम्बः कस्त्वदेकावलम्बम् ॥ ४५ अम्ब त्वदीयमहिमाम्बुधिशीकराणु- वेदी सुधीस्त्वयि निरन्तरवृत्त्यलाभे । ईशाभिधे भुवि समेतु न किं पिपासो- रभ्यर्णगेऽम्भसि निरुद्धगतेरवस्थाम् ॥ ४६ इतो रोगाः कामादय इत इतः स्त्रीसुतमुखाः कृतान्तास्सर्वत्रेत्ययमनवधिः क्लेशजलधिः । तमेतं चाह्नाय त्वदनुगदयोल्लासघटभू- र्निपीयेशाख्ये मामभिरमयतु त्वत्परिसरे ॥ ४७ अम्ब प्रसीद कुरु मामनघं बलात्वं अङ्के च ते कुरु निषण्णममुं शिवाख्ये । जम्बालसक्तममलं कुरुते न माता किं बालकं न कुरुतेऽङ्कजुषञ्च हष्टा ॥ ४८ आविर्भवस्ययि नृणां त्वमयत्नतोऽग्रे ग्लानिं धुनोषि घटयस्यपि मङ्गलानि । ईशाभिधे तव यशो न किमुज्जिहीतां ईर्ष्याकुलत्वममरा न किमश्रुवीरन् ॥४९ मदनहन्त्रभिधे तव निर्झराः मधुसुधालहरीरतिशेरते । कृतधियो विहरन्ति च तेष्वमी- ष्वरसिकोऽत्र हतोऽस्म्यमेक कः ॥ ५० शिवाख्ये मा भैषीः पदममरनेतुर्ननु भवेत् अमुष्मै दातव्यं सरसिजभुवो वा पदमिति । समीहे नाहं तत् किमपि सहसाभ्येहि रसनां ममेमां माहासीज्समभिलषितं मे पुनरिदम् ॥ ५१ प्रदाय त्रैलोक्यश्रियमथ विमुक्तिश्रियमपि त्वम्न्तर्लज्जार्ता भवसि किममुष्मै कृतमिदि । व्यथैषा दिष्ट्या त्वद्रसिकतिलकैस्ते परिहृता विना त्वामीशाख्ये न किमपि यदेषां रतिपदम् ॥५२ जन्मास्यवार्यमिति ते जननि प्रसादो जायेत चेन्मयि तदस्तु शिवाभिधे नः । त्वन्निष्ठताभरनिरन्तरतातिरम्यं यज्जन्म तन्मम न जीर्यतु ते नमोऽस्तु ॥ ५३ विश्वाधिनेतुरखिलार्थविदः स्मरारेः अग्न्याततां मदघराशिममुं नयन्ती । मां त्रायसे मदनहन्त्रभिधेऽम्ब कस्ते चातुर्य साहससभरौ चतुरोऽभिधातुम् ॥ ५४ प्रसीद गिरिशाभेधे प्रदिश मन्मतावम्बया सहस्फुरणमूर्जितं सततमिन्दुमौळेर्विभोः तथानिशमिहासिकां तव मदीयजिह्वाञ्चले ददस्व मम काङ्क्शितं द्वयमिदं त्वदेकास्पदम् ॥ ५५ न संस्फुरतु काङ्क्शतः स्फुरणमीश्वराख्ये कथं हृदि त्वदनुगस्य तद् भ्रुकुटिकिङ्करश्शङ्करः । चरन्तु विषया हरस्फुरणरोधिनो हृद्यमी कथं कथय गर्जनैर्जननि तर्जयन्त्यां त्वयि ॥ ५६ ममायमवबुद्ध्यतां मधुरिमाणमूर्जस्वलं कदापि विजहातु मां न रसनैतदीयेति मे । दयस्व गिरिशाभिधे ननु ददीत स मेऽथवा तदेतदभिकाङ्क्शितं त्वदनुगेषु जात्वानतिः ॥५७ मनागपि मनःस्पृशेन्मम यदेदमर्थान्तरं तदा द्रुतमपैष्यहो त्वमपहाय जिह्वां मम । तथाम्ब गिरिशाभिधे तव न विप्रलम्भः क्षमो भणेत् क इह किं प्रसूर्भवति विप्रलब्ध्री यदि ॥५८ यदा त्वमपयासि मां जननि वञ्चयित्वा स्वयं तदा नियतमाहरोपहरमुख्यसञ्जल्पनैः । यथा कलितवञ्चनः पुरहराभिधे त्वामहं नयानि रसनां तथाञ्चतुविधेः प्रसादो मयि ॥ ५९ शर्राणतवन्तः खलु यं शशिकन्दळशेखराभिधे भवतीम् । तच्चरणाम्बुजविहरणसंस्मरणं सुरघटाकिरीटतटे ॥ ६० शरणं जगतो ह्येते शरणितवन्तश्शिवाभिधेये त्वाम् । अभिलषितं यदमीषामसुलभमिति तन्न किं वियन्नळिनम् ॥ ६१ महेशे तत्सङ्गिष्वपि कृतिषु पाषाणाह्रुदये वराके मय्यस्मिन् प्रविद्धति सन्तः प्रणयिताम् । कथङ्कारं मातर्दळय तदिहेमां मम हृदो द्दषत्तामत्राम्ब स्मरभिदभिधे त्वं खलृ गतिः ॥ ६२ ॥ इति श्री श्रीधरवेङ्कटेशार्य कृतौ आख्याषष्टिः सम्पूर्णा ॥

Related Content

जम्बुनाताष्टकम - Jambhunatashtakam

आर्तिहर स्तोत्रम् श्रिधर अय्यावाल्

दयाशतकम् श्रीधर वेङ्कटेश अय्यावाल् Daya Shatakam Sridhara Ve