logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolनिग्रहाष्टकम्- NigrahaashtakamOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Nigrahaashtakam of Srimad Appayya Dekshitar in Devanagari script श्रीमदप्पयदीक्षितविरचितम् ॥निग्रहाष्टकम्॥ मार्गे सहायं भगवन्तमेव विश्वस्य विश्वाधिक निर्गतोऽस्मि। शास्त्रं प्रमाणं यदि सा विपत्स्यात् तस्यैव मन्दो मयि यां चिकीर्षेत् ॥१॥ कान्तारे प्रान्तरे वा मदकुशलकृतं सान्तरं सान्तरङ्गं मह्यं द्रुह्यन्तमन्तं गमयतु भगवानन्तकस्यान्तकारी । क्षिप्रं विप्राधमस्य क्षिपतु च तदुरस्येव मायाविवर्ता नार्तान् बन्धूनबन्धूनिव मम शिशिराभ्यन्तरान् सन्तगोतु ॥२॥ सहस्त्रं वर्तन्तां पथि परे साहसकृतः प्रवर्तन्तां बाधां मयि विविधमप्यारचयितुम् । न ल्क्ष्यीकुर्वेऽहं नलिनजलिपिप्राप्तमपि त- न्मम स्वामी चामीकरशिखरचापोऽस्ति पुरतः ॥३॥ संकलय स्याणुशास्त्रप्रचरणविहतिः स्वेन कार्या भुवीति श्मश्रूणि स्वैरमश्रूण्यपि दृशि महतां स्पर्धया वर्धयन्तः । क्षुद्रं विद्रावयेयुर्झटिति वृषपतिक्रोधनिश्वासलेशाः शास्त्रं शैलादिभृत्यास्तनुयुरखिलभूमण्डलव्याप्तमेतत् ॥४॥ क्वचिदवयवे कांशिचद्दग्धुं बलादनुचिन्तयन् निरसनमितो देशात् कर्तुं महेश्वरमाश्रितान् । प्रमथपरिषद्रोषैर्दग्धाखिलावयवः स्वयं निरसनमितो लोकादेव क्षणेन समश्नुताम् ॥५॥ कालप्रतीक्षा नहि तस्य कार्या पुलस्त्यपुत्रादिवदन्तकारे । त्वदाश्रितद्रोहकृतोद्यंआनां सद्यः पतेदेव हि मूर्ध्नि दण्डः ॥६॥ कण्ठे रुद्राक्षमालं भसितमतिशितं फालदेशे न पश्यन् नश्यन्येव क्रुधा यः तदपहृतिमतिं सत्सु कुर्वीत गुर्वीम् । तत्फालात्तूर्णमायुर्लिखितमसुगणं चापि तत्कण्ठदेशात् क्रुद्धास्ते ह्युद्धरेयुर्निजपदकमलाङ्गुष्ठलीलाविलासात् ॥७॥ सकलभुवनकर्ताः साम्बमूर्तिः श्शिवश्चेत् सकलमपि पुराणं सागमं चेत्प्रमाणम् । यदिभवनि महत्वं भस्मरुद्राक्षभाजां किमिति न मृतिरस्मद्रोहिणस्स्यादकण्डे ॥८॥ ॥इति श्रीमद्प्पय्यदीक्षितविरचितं श्रीनिग्रहाष्टकम् ॥

Related Content

श्रीमदप्पयदीक्षितविरचितम् आर्याशतकम् - Srimad Appayya Diksh