logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolश्रीमद्दीक्षितेन्द्रविरचित शिवध्यान पद्धतिः - Shivadhyana paddhatih Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Srimad Appayya Dikshithar's Shivadhyana Paddhatih ॥ अथ श्रीमद्दीक्षितेन्द्रविरचित शिवध्यान पद्धतिः ॥ श्रीगुरुभ्यो नमः । मध्येहृदयपाथोजं महादेवासनोचितम् । महिताकारशोभाढ्यं मणटपं परिचिन्तयेत् ॥१॥ अतिचिन्तामणिप्रख्यैरतिकौस्तुभकान्तिभिः । रत्नैरप्राकॄतैर्लोकं रञ्जयन्तं समन्ततः ॥२॥ दक्षिणद्वारपार्श्वस्थं संस्मरेन्नन्दिकेश्वरम् । अनेकरुद्रप्रमथभूतसङ्घैर्निषेवितम् ॥ ३॥ शिवधर्ममहाध्यक्षं शिवान्तः पुरपालकम् । चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ ४॥ बालेन्दुमुकुटं सौ म्यं चतुर्बाहुं त्रिलोचनम् । चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥५॥ उत्तरद्वारपार्श्वे तु तत्पत्नीं मरुतस्सुताम् । सुयशां सुव्रतामम्बापादमण्डनतत्पराम् ॥६॥ सहितां रुद्रकन्याभिः सखीभिश्चाप्यनेकशः । मध्ये च मण्डपस्यास्य वेदिकां विपुलप्रभाम् ॥७॥ चतुस्तम्भयुत्तां ध्यायेत् चतुरश्रां मनोहराम् । तस्यां शक्त्यादिशक्त्यन्तं तन्वीत परमासनम् ॥८॥ आधारशक्तिं श्यामाङ्गीमादौ धृतवराभयाम् । तस्याः परस्तादुत्कण्ठमनन्तं कुण्डलाकृतिम् ॥९॥ तस्योपरि शुभं ध्यायेत् सिंहासनमुमापतेः । धर्मो ज्ञानं च वैराग्यंऐश्वर्यं च तदङ्घ्रयः ॥१०॥ आग्रेय्यादिस्थिताः श्वेतपीतरक्तहरित्प्रभाः । सिंहाकाराः सिंहकोट्या प्रत्येकं परिवारिताः ॥११॥ अधर्मादीनि पूर्वादिफलकानि समन्ततः । राजावर्तप्रकाशानि नराकारधराणि च ॥१२॥ मध्यंअं फलकं तस्य सूक्ष्माल्लक्ष्मीपतिः स्वयं । तस्मिन् प्रागादिमध्यस्थं प्रणवादिस्वराष्टकम् ॥१३॥ योगासनं विभोर्धायेत कूर्माकॄत्यनलप्रभम् । तस्योर्ध्वच्छदनं पद्ममासनं विमलं स्मरेत् ॥१४॥ शिवाधर्ममहाकन्दं शिवज्ञानैकनालकम् । अष्टैश्वर्यदलोपेतं पूर्वादिहरितः क्रमात ॥१५॥ अष्टावामादिशाक्त्यन्तरुद्रकल्पितकेसरम् । वैराग्यकर्णिकाश्वभ्रं वामादिनवबीजकम् ॥१६॥ वामा ज्येष्ठा च रौद्री च काली विकरणी तथा । बलापूर्वा विकरिणी बलप्रमथिनी तथा ॥१७॥ अष्टावेताः सर्वभूतदमन्या सह शक्तयः । केसरेषु स्थिता ध्येया रक्ताभा धृतचामराः ॥१८॥ कलाधरकरद्योतकर्णिकायां मनोन्मनी । स्मर्तव्येशानदिग्भागे पाशाङ्कुशवराभयैः ॥१९॥ पद्मासनस्थितं ध्यायेद्देवस्य विमलासनम् । गणाम्बिका महादेवी तन्नो देवी प्रचोदयात् ॥२०॥ क्रान्तं शक्तिभिरेताभिः सौ म्यादिविमलासनम् । तस्योपरि गुणानां च मण्डलानां च साधकः ॥२१॥ तत्त्वानामपि मूर्तीनां त्रितयानि विभावयेत । सर्वासनोपरिचितं विचित्रकुसुमास्तरम् ॥२२॥ परं व्योमावकाशाख्यंआसनं कल्पयेत् प्रभोः । तस्मिन् सदाशिवं ध्यायेत् बद्धपद्मासनस्थितम् ॥२३॥ शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम्। विद्युद्वलयविद्योतिजतामुकुटण्डितम् ॥२४॥ शार्दूलचर्मवसनं मन्दस्मितमुखाम्बुजम् । रक्तपद्मदलप्रख्यपाणिपादतलाधरम् ॥२५॥ द्वात्रिंशल्लक्षणोपेतं सर्वाभरणभूषितम् । दिव्यगन्धानुलिप्ताङ्गं दिव्यंआल्यैरलङ्कृतम् ॥२६॥ पञ्चवक्त्रं दशभुजं प्रतिवक्त्रं त्रिलोचनम् । दक्षिणे शूलवज्रासिपरश्वभयंउद्रिकाः ॥२७॥ वामे च दधतं नागपाशघण्टानलाङ्कुशान्। अस्योर्ध्ववक्त्रं विलसद्वाल्यंइन्दुकलाधरम् ॥२८॥ ध्यानस्थमूर्ध्वभिमुखं गगनच्छाययासितम्। पूर्ववक्त्रं महेन्द्रस्य छायया कनकप्रभम् ॥२९॥ बालेन्दुशेखरं सौ म्यं सम्प्राप्तनवयौवनम् । दक्षिणं वदनं कालछायासक्त्याञ्जनप्रभम् ॥३०॥ भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयं । दंष्ट्राकरालदुर्धर्षं स्फुरिताधरपल्लवम् ॥३१॥ चन्द्रापीडं ज्वलत्केशं किञ्चिच्चलितयौवनम्। उत्तरं यक्षराजस्य छायया विद्रुमप्रभम् ॥३२॥ ललाटतिलकोपेतं नीलालकविभूषितम् । सविलासं त्रिणयनं चन्द्राभरणभास्वरम् ॥३३॥ अङ्गनाकृतिबिम्बोष्ठं सलीलभ्रूलताञ्चितम् । पश्चिमं पाशहस्तस्य छायया चन्द्रसंनिभम् ॥३४॥ चन्द्रोत्तंसं नृपाकारं कृतभस्मावगुण्ठनम् । इति ध्यात्वा पुनरपि ध्यायेदेवं सदाशिवम् ॥३५॥ इच्छाज्ञानक्रियारूपविलसल्लोचनत्रयं । ज्ञानचन्द्रकलाचूडदशदिग्बाहुमण्डलम् ॥३६॥ त्रैगुण्यादिमयैर्भान्तं दिव्यैर्दशभिरायुधैः । सर्वज्ञानादिसंसिद्धहृदयादिषडङ्गकम् ॥३७॥ पञ्चब्रह्माख्यवदनं पञ्चसादाख्यवक्रकम् । श्रीमत्पञ्चाक्षरमयं प्रणवाकारमेव वा ॥३८॥ समस्ततन्त्ररूपञ्च वर्णब्रह्मकलामयं । निवृत्त्या जानुपर्यन्तमानाभेश्च प्रतिष्ठया ॥३९॥ आकण्ठं विद्यया सिद्धमाललाटं तु शान्तया । तदूर्ध्वं शान्त्यतीताख्यकलया परिकल्पितम् ॥४०॥ एवं पञ्चकलारूपमेकं सादाशिवं वपुः । चतुर्मुखी तटिद्वर्णा निवृत्तिर्वज्रधारिणी ॥४१॥ एकवक्त्रा शशाङ्काभा प्रतिष्ठा पद्मधारिणी । अग्निवर्णा त्रिवदना विद्या शक्तिलसत्करा ॥४२॥ कृष्णवर्णा चतुर्वक्त्रा शान्तिर्ध्वजविधारिणी । पाशभृत्पञ्चवदना शान्त्यतीता शशिप्रभा ॥४३॥ सर्वाःपद्माक्षमालाभ्यामभयेन् विराजिताः । चतुर्भुजास्त्रिणेत्राश्च पीनोन्नतपयोधराः ॥४४॥ आसां पञ्चाध्वगर्भत्वात् षडध्वात्मा सदाशिवः । मन्त्राध्वा च पदाध्वा च वर्णाध्वा भुवनाध्वकः ॥४५॥ तत्वाध्वा च कलाध्वा च षडध्वान इमे मताः । चतुर्विशत्युत्तरं यद्भुवनानां शतद्वयं ॥४६॥ भुवनाध्वा स संचिन्त्यो रोमबृन्दात्मना विभोः । पञ्चाशदुद्ररूपैस्तु वर्णैर्वर्णाध्वकल्पना ॥४७॥ असौ त्वगात्मना चिन्त्यो देवदेवस्य शूलिनः । सप्तकोट्या महामन्त्रैर्मूलविद्यासमुद्धवैः ॥४८॥ मन्त्राध्वा रुधिरात्मासौ संचिन्त्यः पार्वतीपतेः । अनेकभेदसंभित्रमन्त्राणां पदसंहतिः ॥४९॥ पदाध्वासौ पशुपतेः सिरामांसात्मना मतः । पृथिव्यादीनि षटिंत्रशत्तत्वान्यागमवेदिभिः ॥५०॥ उक्तान्यंईभिस्तत्त्वाध्वा शुक्लमज्जास्थिरूपधृक् । नास्यदेहेऽस्ति रुधिरं न मांसं नास्ति किञ्चन ॥५१॥ प्रतिबिम्बमिवादर्शे शक्रचापमिवाम्बरे । ज्योतिर्मयतया सिद्धमिदं सादाशिवं वपुः ॥५२॥ तथापि कल्पनामात्रं कलाव्याप्याध्वनामिदम् । ब्रह्मस्वीशेनमूर्धानः पुरुषेण चतुर्मुखी ॥५३॥ हृदयादीन्यघोरेण गुह्यादीनि च वामतः । सद्योजातेन मन्त्रेण पादादीनि जगत्पतेः ॥५४॥ पञ्चमन्त्रतनुः शम्भुरेवं कल्पनया भवेत् । ओंकारबीजप्रभवः कलापञ्चकसंयुतः ॥५५॥ शुद्धस्फटिकसंकाशः शुभमेधाविवर्धनः । सदाशिवात्मा व्योमस्थ ईशानः परिकीर्तितः ॥५६॥ गायत्रीप्रभवो मन्त्रः स्वर्ण्वर्णश्चतुष्कलः । वश्यकृद्गन्धवाहस्थः ईश्वरः पुरुषःस्मृत ॥५७॥ अथर्वप्रभवो मन्त्रः कलाष्टकविभूषितः । आभिचारकरोऽत्यर्थमञ्जनाद्गिसमप्रभः ॥५८॥ अशेषाघहरःपुंसामघोरो रुद्रविग्रहः । सामवेदोद्भवो मन्त्रस्त्रयोदशकलान्वितः ॥५९॥ वामदेवः प्रवालाभो वारितत्त्वस्थितो हरिः । यजुर्वेदोद्भवो मन्त्रः कलाष्टकयुतः सितः ॥६०॥ शान्तिकृत् पृथिवीसंस्थःसद्योजातः पितामहः । पञ्चवक्त्राः स्मृताः सर्वे दशदोर्दण्डभूषिताः ॥६१॥ ख्ड्गखेटधनुर्बाणकमण्डल्वक्षसूत्रिणः । वराभयोपेतकराः शूलपङ्कजपाणयः ॥६२॥ अघोरो घोर एतेषु तदन्ये सौ म्यविग्रहाः । एवं ध्यात्वा सदेशस्य पञ्चब्रह्मात्मतां विभोः ॥६३॥ तत्तद्वह्मकलाभेदैर्विविच्याङ्गादि कल्पयेत् । ईशानस्सर्वविद्यानामित्येषा शङ्खपाण्डरा ॥६४॥ धूर्जटेरूर्ध्वमूर्धासौ शशिन्या सहिता कला । ईश्वरः सर्वभूतानामित्येषा कुन्दसन्निभा ॥६५॥ शर्वस्य पूर्वमूर्धासौ श्क्त्या युक्ताङ्गदाख्यया । ब्रह्माधिपतिरित्यग्रे ब्रह्मणोऽधिपतिस्ततः ॥६६॥ ब्रह्मेत्येषा शशाङ्काभा सैषा मूर्धास्य दक्षिणः । शिवो मे अस्त्विति कला शुद्धस्फटिकभास्वरा ॥६७॥ महेशास्योत्तरो मूर्धा मरीचिरसवीचिका । सदाशिवोमिति कला गोक्षीरधवलाकृतिः ॥६८॥ शिवस्य पश्चिमो मूर्धा नलिनीमेलनोज्वला । कला तत्पुरुषायेति पूर्वा विद्मह इत्यसौ ॥६९॥ शान्तियुक्ता जपावर्णा पूर्ववक्त्रं पुरद्विषुः । महादेवाय पूर्वा या धीमहीति कला श्रुता ॥७०॥ सा विद्या सहिता कृष्णा दक्षिणं वक्त्रमीशितुः । कला प्रतिष्ठा सहिता तन्नोरुद्र इति श्रुता ॥ ७१॥ वक्त्रमुत्तरमीशस्य वर्णेन स्फटिकोपमा। प्रचोदयादिति कला प्रतप्तकनकोपमा ॥७२॥ शिवस्य पश्चिमं वक्त्रं निवृत्या नित्यसंहिता । अघोरेभ्यः कला नीला हृदयन्तमया युता ॥७३॥ अथ घोरेभ्य इत्येषा रक्ता मोहा सखीगलः । पीता घोरकला स्कन्धो दक्षिणःक्षयया युता ॥७४॥ वामो निद्रायुता घोरतरेभ्य इति कीरभा । कुक्षिःसर्वेभ्य इत्येषा शुभ्राभा मायया युता ॥७५॥ नीला मृत्युयुता नाभिः सर्वेभ्यः शर्वरूपिणी । नमस्ते अस्तु रुद्रेति पृष्ठं रत्नाभया युता ॥७६॥ पक्षे रूपेभ्य इत्येषा सजरा काञ्चनप्रभा । वामदेवाय नम इत्येषा सिन्दूरसुन्दरी ॥७७॥ जरया सहिता याति मूलाधारा धरात्मताम् । लिङ्ग रक्षायुत्ता पीता ज्येष्ठाय नम इत्यसौ ॥७८॥ सव्योरुस्सरतिर्निला स्यद्रुद्राय नमःकला । पीता सबल्या वामोरूः कालाय नम इत्यसौ ॥७९॥ शुक्लाकला कला वामासहिता जानु दक्षिणम् । वामं विकरणायाऽथ नमः श्यामा ससंयंआ ॥८०॥ सक्रिया दक्षिणा जङ्घा नीला बलकला विभोः । वामा विकरणायाऽथ नमो बुद्धियुतारुणा ॥८१॥ विद्युद्वर्णा बलकला सव्यस्फिक्कार्ययायुता । वामः प्रमथनायाऽथ नमो धात्रीयुतासिता ॥८२॥ बालार्काभा सर्वभूतदमनाय नमःकला । भ्रामण्या धृतलावण्या कटिःकन्दर्पविद्विषः ॥८३॥ सव्यपार्श्वं मनकला नीलाभा मोहिनीयुता । उल्लसत्कीरपक्षाभा ह्युन्मनाय नमःकला ॥८४॥ मनोन्मनीयुतं ध्यायेत् वामपार्श्वं पिनाकिनः । सद्योजातं प्रपद्यामीत्येषा बालार्कसन्निभा ॥८५॥ कला सिद्धिसमायुक्ता धूर्जटेर्दक्षिणं पदम् । सद्योजाताय वै पूर्वा नम इत्यसिता कला ॥८६॥ ॠद्धिशक्तेः सहचरी वामं गौरीपतेः पदम्। नील भवेकलाद्युक्ता सहिता दक्षिणःकरः ॥ ८७॥ नीला भवेकलाऽन्या तु वामो लक्ष्मीयुता करः । मेधा सहचरी नासा पीता नातिभवेकला ॥८८॥ भजस्व मामितिकला सकान्तिररुणा शिरः । नीला भवकला बाहुः दक्षिणः स्वधया युता ॥८९॥ उद्यदर्क कराभासामुद्भवाय नमः कलाम् । धृतिशक्तियुतां ध्यायेद्वामाबाहुं जगत्पतेः ॥९०॥ अष्टत्रिंशत्कलादेवाः त्रिणेत्राश्च चतुर्भुजाः । वराभयपरश्वेणविलसत्करपल्लवाः ॥९१॥ तत्तद्बह्मसमाकारवर्णायुधभृतोऽथ वा । एतेषां वामभागेषु विचिन्त्याः शक्तयस्त्विमाः ॥९२॥ पाशाङ्कुशाभयवरद्योतमानकराम्बुजाः । श्रीकण्ठप्रमुखान् रुद्रान् वर्णरूपान् सशक्तिकान् ॥९३॥ प्रभोरवयवान् ध्यायेद्वायुक्तान् न्यासवर्त्मना । स्मरेत् सशक्तिकान् रुद्रान् अर्धनारीश्वराकृतीन् ॥९४॥ सिन्दूरकाञ्चनप्रख्यवामदक्षिणपार्श्वकान् । पाशाङ्कुशाक्षवलयवरमुद्राविराजितान् ॥ ९५॥ प्रसन्नवक्त्रकमलान् विश्ववाञ्छितदायकान् । कामिकं पादकमलं योगजं गुल्फयोर्युगम् ॥९६॥ चिन्त्यं पदाङ्गुलीरूपं कारणं प्रसॄतिद्वयं । अजितं जानुनो युग्मं दीप्तमूरुद्वयं विभोः ॥९७॥ गुह्यं बीजात्मकं सूक्ष्मं सहस्रं तु कटीतटम। पृष्ठभागोंशुमानस्य नाभिः श्रीसुप्रभेदकम् ॥९८॥ विजयं जठरं बाहुः निश्वासं हृदयात्मकम् । स्वायंभुवं स्तनद्वन्द्वमनलं लोचनत्रयं ॥९९॥ वीरागमःकण्ठदेशः रौरवं श्रवणद्वयं । मुकुटं मुकुटं तन्त्रं बाहवो विमलागमः ॥१००॥ चन्द्रज्ञानमुरः शम्भोर्बिम्बं वदनपङ्कजम् । जिह्वा प्रोद्गीतमीशस्य ललितं गण्डयोर्युगम् ॥१०१॥ सिद्धं ललाटफलकं सन्तानं कुण्डलद्वयं । यज्ञोपवीतं सर्वोक्तं हारस्त्रक् पारमेश्वरम् ॥१०२॥ किरणं रत्नभूषास्य वातुलं वसनात्मकम् । एवं तन्त्रात्मकं रूपमीश्वरस्य विचिन्तयेत् ॥१०३॥ शिवज्ञानप्रदं पुंसां शिवधर्मप्रवर्तकम् । प्रणवस्य च मात्राभिः वर्णेःपञ्चाक्षरस्य च ॥१०४॥ वदनांसोरुयुगलं कल्पयेदम्बिकापतेः । विशुद्ध्ं शिवसादाख्यं विद्युदृन्दमिवाम्बरे ॥१०५॥ विश्वतः स्फुरितं ज्योतिर्विद्यादूर्द्ध्वमुखं विभोः । अमूर्तमथ सादाख्यं मूलस्तम्भ इति श्रुतम् ॥१०६॥ ज्योतिस्तम्भमयं लिङ्गं स्मर्दस्योत्तरं मुखम् । ज्योतिर्लिङ्गैकभागोत्थमेकवक्त्रं त्रिलोचनम् ॥१०७ मूर्तं सादाख्यंइत्युक्तं ध्यायेत् पश्चिममाननम् । शूलं च परशुं वज्रमभीतिं दक्षिणैःकरैः ॥१०८ पाशं वह्निं च घण्टां च वरं वामैःकरैरपि । दधानं कर्तृसादाख्यं चतुर्वक्त्राम्बुजोज्ज्वलम् ॥१०९॥ लिङ्गमध्ये समुद्भूतं स्मरेद्दक्षिणमाननम् । पञ्चवक्त्रं दशभुजं पीठलिङ्गे समुद्गतम् ॥११०॥ प्रसिद्धं कर्मसादाख्यं पुरारेः पूरारेःपूर्वमाननम् । पञ्चब्रह्माण्यर्ध्व पूर्वदक्षिणोत्तरपश्चिमान् ॥१११॥ वक्त्रपद्मान् विभोर्ध्यायेदीशानप्रभृति प्रभोः ॥११२॥ सर्वज्ञतातृप्तिरनादिबोधः स्वतन्त्रता नित्यंअलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥११३॥ हृदयं हृदये शुभ्रं शिरःशिरसि पिङ्गलम् । शिखां शिखां पदे रक्तां कवचं पार्श्वयोः स्थितम् ॥११४॥ नेत्रेषु श्यामलं नेत्रं करेऽस्त्रमसितं स्मरेत् । चतुर्भुजास्त्रिणेत्राश्च जटामकुटमण्डिताः ॥११५॥ वराभये कपालं च शूलं च दधतः करैः। अङ्गदेवाः स्मृताः सौ म्या नेत्रास्तेऽत्युग्रविग्रहे ॥११६॥ त्रिशूलं त्रिगुणं प्राहुः परशुः सत्यनिष्ठता । ख्ड्गःप्रतापो वज्रं तु शम्भोः शक्तिरभेद्यता ॥११७॥ वह्निःसंहारिणी शक्तिः शक्तिर्नागोऽप्रधृष्यता । मलमायाकर्मपाशो घण्टा नादस्वरूपिणी ॥११८॥ अभयं पालिनीशक्तिर्विवर्णं त्वङ्कुशं विदुः । एवं दशभुजश्चिन्त्यो दिव्यैर्दशभिरायुधैः ॥११९॥ जपकाले तु मन्त्रस्य ध्येयो देवश्चतुर्भुजः । वराभयपरश्वेणलसत्करसरोरुहः ॥१२०॥ वक्त्रेष्वीशानवक्त्रं यदूर्ध्वाशाभिमुखं सदा । पूजाकालेषु तत्पूजा द्वाराभिमुखतां व्रजेत् ॥१२१॥ द्वारभेदान्न भिद्यन्ते स्वस्वस्थानव्यवस्थया । अथवा मण्डपद्वारदिगादिपरितः क्रमात् ॥१२२॥ चत्वार्येतानि वक्त्राणि प्रादक्षिण्येन कल्पयेत् । एवं सदाशिवं ध्यात्वा निश्च्लेनान्तरात्मना ॥१२३॥ मन्त्रन्यासादिकं चैवं कृत्वा स्वस्यां तनौ यथा । मूर्तित्वेनैव संकल्प्य शिवस्य परमात्मनः ॥१२४॥ अभ्यर्च्य गन्धपुष्पाद्यैर्मनसैवोपपादितैः । तस्यां मूर्तो मूर्तिमन्तं शिवं सदसतःपरम् ॥१२५॥ प्राणस्थानं सदेशस्य चिन्तयेदम्बया सह । ब्रह्मा विष्णुश्च रुद्रश्च तथान्ये च सुरासुराः ॥१२६॥ तपोभिरुग्रैरद्यापि यस्य दर्शनकाङ्किणः । यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ॥१२७॥ सहभूतेन्द्रियैःसर्वैः प्रथमं संप्रसूयते । कारणानां च यो धाता ध्याता परमकारणम् ॥१२८॥ न संप्रसूयतेऽन्यस्मात् कुतश्चन कदाचन । सर्वैश्वर्येण सम्पन्नः नाम्ना सर्वेश्वरः स्वयं ॥१२९॥ सर्वैर्मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः । सर्वोपरिकृतावासः सर्ववासश्च साश्वतः ॥१३०॥ षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः । उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ॥ १३१॥ अनन्तमहिमाम्भोधिरपरिच्छिन्नवैभवः । अशेषविषयामिघशुद्धबुद्धिविजृम्भणः ॥१३२॥ आत्मशक्त्यंऋतास्वादप्रमोदरसलालसः । अनन्तानन्दसन्दोहमकरन्दमधुव्रतः ॥१३३॥ अखण्डजगदण्डानां पिण्डीकरणपण्डितः । औदार्यवीर्यगाम्भीर्यंआधुर्यंअकरालयः ॥१३४॥ अतुलः सर्वभूतानां राजराजो महेश्वरः । अप्राकृतशरीरं तमतिमन्मथरूपिणम् ॥१३५॥ घृतरीतिघनीभूतसच्चिदानन्दविग्रहम् । सर्वलक्षणसम्पन्नं सर्वावयवशोभनम् ॥१३६॥ सर्वातोशयसंयुक्तं सर्वाभरणभूषणम् । रक्तास्यपाणिचरणं कुन्दमन्दस्मिताननम् ॥१३७॥ शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् । चतुर्भुजमुदाराङ्गं चारुचन्द्रकलाधरम् ॥ १३८॥ वरदाभयहस्तं च मृगटङ्कधरं हरम् । सर्वकल्याणनिलयं चारुनीलगलान्तरम् ॥१३९॥ सर्वोपमानरहितं सर्वात्मानं विचिन्तयेत् । ततः संचिन्तयेत्तस्य वामभागे महेश्वरीम् ॥१४०॥ उत्फुल्लोत्पलपत्राभविस्तीर्गायतलोचनाम् । पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्धजाम् ॥१४१॥ नीलोत्पलदलप्रख्यां चन्द्रार्ध्कृतशेखराम् । अतिवृत्तघनोत्तुङ्गस्त्रिग्धपीनपयोधराम् ॥१४२॥ तनुमध्यां पृयुश्रोणीं पीनसूक्ष्मोत्तराम्बराम् । सर्वाभरणसम्पन्नां ललाटतिलकोज्वलाम् ॥१४३॥ विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् । सर्वातीतगुणाकारां किञ्चिल्लज्जनताननाम् ॥१४४॥ काव्याकारस्फुरद्दिव्यनासामुक्ताफलाञ्चिताम् । हेमारविन्दं विलसद्दधानां दक्षिणे करे ॥१४५॥ दण्डवच्चापरं हस्तं न्यस्यासीनां सुखासने । पापविच्छेदिकां साक्षात् सच्चिदानन्दरूपिणीम् ॥१४६॥ सदाशिवेश्वरहरश्रीशदुहिणमातरम् । सनस्तगौरीवाण्यादिलक्ष्म्यादिपरिसेविताम् ॥१४७॥ एवं देवं च देवीं च ध्यात्वा तरुणविग्रहौ । सर्वोपचारवद्भक्त्या भावपुष्पैः समर्चयेत् ॥ १४८॥ एवं ध्यात्वा क्षणमहो अग्निष्टोमायुतात् फलम् । उमासहायं विश्वेशं ध्यात्वा प्राप्नोति मानवः ॥१४९॥ इत्याकलय्य शैवानि शास्त्राणि सकलान्यपि । उद्धृत्य तेभ्यः सारांशः संगृहीतो यथामतिः॥१५०॥ श्रीपतिध्येयपादाब्जश्रीशिवध्यानपद्धतिः । अनुसन्धीयतां प्राज्ञैरनुसन्ध्यंइयं मुदा ॥१५१॥ ॥श्री साम्बशिवाय नमः ॥ ॥श्रीमदप्पय्यदीक्षितेन्द्रविरचिता श्रीशिवाध्यानपद्धतिः सम्प्पूर्णा ॥ ॥शिवाभ्यां नमः ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্