logo

|

Home >

Scripture >

scripture >

Sanskrit

श्रीमद्दीक्षितेन्द्रविरचित शिवध्यान पद्धतिः - Srimad Appayya Dikshithar's Shivadhyana Paddhatih

Srimad Appayya Dikshithar's 
Shivadhyana Paddhatih


॥ अथ श्रीमद्दीक्षितेन्द्रविरचित शिवध्यान पद्धतिः ॥

श्रीगुरुभ्यो नमः ।

मध्येहृदयपाथोजं महादेवासनोचितम् ।
महिताकारशोभाढ्यं मणटपं परिचिन्तयेत् ॥१॥

अतिचिन्तामणिप्रख्यैरतिकौस्तुभकान्तिभिः ।
रत्नैरप्राकॄतैर्लोकं रञ्जयन्तं समन्ततः ॥२॥

दक्षिणद्वारपार्श्वस्थं संस्मरेन्नन्दिकेश्वरम् ।
अनेकरुद्रप्रमथभूतसङ्घैर्निषेवितम् ॥ ३॥

शिवधर्ममहाध्यक्षं शिवान्तः पुरपालकम् ।
चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ ४॥

बालेन्दुमुकुटं सौ म्यं चतुर्बाहुं त्रिलोचनम् ।
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥५॥

उत्तरद्वारपार्श्वे तु तत्पत्नीं मरुतस्सुताम् ।
सुयशां सुव्रतामम्बापादमण्डनतत्पराम् ॥६॥

सहितां रुद्रकन्याभिः सखीभिश्चाप्यनेकशः ।
मध्ये च मण्डपस्यास्य वेदिकां विपुलप्रभाम् ॥७॥

चतुस्तम्भयुत्तां ध्यायेत् चतुरश्रां मनोहराम् ।
तस्यां शक्त्यादिशक्त्यन्तं तन्वीत परमासनम् ॥८॥

आधारशक्तिं श्यामाङ्गीमादौ धृतवराभयाम् ।
तस्याः परस्तादुत्कण्ठमनन्तं कुण्डलाकृतिम् ॥९॥

तस्योपरि शुभं ध्यायेत् सिंहासनमुमापतेः ।
धर्मो ज्ञानं च वैराग्यंऐश्वर्यं च तदङ्घ्रयः ॥१०॥

आग्रेय्यादिस्थिताः श्वेतपीतरक्तहरित्प्रभाः ।
सिंहाकाराः सिंहकोट्या प्रत्येकं परिवारिताः ॥११॥

अधर्मादीनि पूर्वादिफलकानि समन्ततः ।
राजावर्तप्रकाशानि नराकारधराणि च ॥१२॥

मध्यंअं फलकं तस्य सूक्ष्माल्लक्ष्मीपतिः स्वयं ।
तस्मिन् प्रागादिमध्यस्थं प्रणवादिस्वराष्टकम् ॥१३॥

योगासनं विभोर्धायेत कूर्माकॄत्यनलप्रभम् ।
तस्योर्ध्वच्छदनं पद्ममासनं विमलं स्मरेत् ॥१४॥

शिवाधर्ममहाकन्दं शिवज्ञानैकनालकम् ।
अष्टैश्वर्यदलोपेतं पूर्वादिहरितः क्रमात ॥१५॥

अष्टावामादिशाक्त्यन्तरुद्रकल्पितकेसरम् ।
वैराग्यकर्णिकाश्वभ्रं वामादिनवबीजकम् ॥१६॥

वामा ज्येष्ठा च रौद्री च काली विकरणी तथा ।
बलापूर्वा विकरिणी बलप्रमथिनी तथा ॥१७॥

अष्टावेताः सर्वभूतदमन्या सह शक्तयः ।
केसरेषु स्थिता ध्येया रक्ताभा धृतचामराः ॥१८॥

कलाधरकरद्योतकर्णिकायां मनोन्मनी ।
स्मर्तव्येशानदिग्भागे पाशाङ्कुशवराभयैः ॥१९॥

पद्मासनस्थितं ध्यायेद्देवस्य विमलासनम् ।
गणाम्बिका महादेवी तन्नो देवी प्रचोदयात् ॥२०॥

क्रान्तं शक्तिभिरेताभिः सौ म्यादिविमलासनम् ।
तस्योपरि गुणानां च मण्डलानां च साधकः ॥२१॥

तत्त्वानामपि मूर्तीनां त्रितयानि विभावयेत ।
सर्वासनोपरिचितं विचित्रकुसुमास्तरम् ॥२२॥

परं व्योमावकाशाख्यंआसनं कल्पयेत् प्रभोः ।
तस्मिन् सदाशिवं ध्यायेत् बद्धपद्मासनस्थितम् ॥२३॥

शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम्।
विद्युद्वलयविद्योतिजतामुकुटण्डितम् ॥२४॥

शार्दूलचर्मवसनं मन्दस्मितमुखाम्बुजम् ।
रक्तपद्मदलप्रख्यपाणिपादतलाधरम् ॥२५॥

द्वात्रिंशल्लक्षणोपेतं सर्वाभरणभूषितम् ।
दिव्यगन्धानुलिप्ताङ्गं दिव्यंआल्यैरलङ्कृतम् ॥२६॥

पञ्चवक्त्रं दशभुजं प्रतिवक्त्रं त्रिलोचनम् ।
दक्षिणे शूलवज्रासिपरश्वभयंउद्रिकाः ॥२७॥

वामे च दधतं नागपाशघण्टानलाङ्कुशान्।
अस्योर्ध्ववक्त्रं विलसद्वाल्यंइन्दुकलाधरम् ॥२८॥

ध्यानस्थमूर्ध्वभिमुखं गगनच्छाययासितम्।
पूर्ववक्त्रं महेन्द्रस्य छायया कनकप्रभम् ॥२९॥

बालेन्दुशेखरं सौ म्यं सम्प्राप्तनवयौवनम् ।
दक्षिणं वदनं कालछायासक्त्याञ्जनप्रभम् ॥३०॥

भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयं ।
दंष्ट्राकरालदुर्धर्षं स्फुरिताधरपल्लवम् ॥३१॥

चन्द्रापीडं ज्वलत्केशं किञ्चिच्चलितयौवनम्।
उत्तरं यक्षराजस्य छायया विद्रुमप्रभम् ॥३२॥

ललाटतिलकोपेतं नीलालकविभूषितम् ।
सविलासं त्रिणयनं चन्द्राभरणभास्वरम् ॥३३॥

अङ्गनाकृतिबिम्बोष्ठं सलीलभ्रूलताञ्चितम् ।
पश्चिमं पाशहस्तस्य छायया चन्द्रसंनिभम् ॥३४॥

चन्द्रोत्तंसं नृपाकारं कृतभस्मावगुण्ठनम् ।
इति ध्यात्वा पुनरपि ध्यायेदेवं सदाशिवम् ॥३५॥

इच्छाज्ञानक्रियारूपविलसल्लोचनत्रयं ।
ज्ञानचन्द्रकलाचूडदशदिग्बाहुमण्डलम् ॥३६॥

त्रैगुण्यादिमयैर्भान्तं दिव्यैर्दशभिरायुधैः ।
सर्वज्ञानादिसंसिद्धहृदयादिषडङ्गकम् ॥३७॥

पञ्चब्रह्माख्यवदनं पञ्चसादाख्यवक्रकम् ।
श्रीमत्पञ्चाक्षरमयं प्रणवाकारमेव वा ॥३८॥

समस्ततन्त्ररूपञ्च वर्णब्रह्मकलामयं ।
निवृत्त्या जानुपर्यन्तमानाभेश्च प्रतिष्ठया ॥३९॥

आकण्ठं विद्यया सिद्धमाललाटं तु शान्तया ।
तदूर्ध्वं शान्त्यतीताख्यकलया परिकल्पितम् ॥४०॥

एवं पञ्चकलारूपमेकं सादाशिवं वपुः ।
चतुर्मुखी तटिद्वर्णा निवृत्तिर्वज्रधारिणी ॥४१॥

एकवक्त्रा शशाङ्काभा प्रतिष्ठा पद्मधारिणी ।
अग्निवर्णा त्रिवदना विद्या शक्तिलसत्करा ॥४२॥

कृष्णवर्णा चतुर्वक्त्रा शान्तिर्ध्वजविधारिणी ।
पाशभृत्पञ्चवदना शान्त्यतीता शशिप्रभा ॥४३॥

सर्वाःपद्माक्षमालाभ्यामभयेन् विराजिताः ।
चतुर्भुजास्त्रिणेत्राश्च पीनोन्नतपयोधराः ॥४४॥

आसां पञ्चाध्वगर्भत्वात् षडध्वात्मा सदाशिवः ।
मन्त्राध्वा च पदाध्वा च वर्णाध्वा भुवनाध्वकः ॥४५॥

तत्वाध्वा च कलाध्वा च षडध्वान इमे मताः ।
चतुर्विशत्युत्तरं यद्भुवनानां शतद्वयं ॥४६॥

भुवनाध्वा स संचिन्त्यो रोमबृन्दात्मना विभोः ।
पञ्चाशदुद्ररूपैस्तु वर्णैर्वर्णाध्वकल्पना ॥४७॥

असौ त्वगात्मना चिन्त्यो देवदेवस्य शूलिनः ।
सप्तकोट्या महामन्त्रैर्मूलविद्यासमुद्धवैः ॥४८॥

मन्त्राध्वा रुधिरात्मासौ संचिन्त्यः पार्वतीपतेः ।
अनेकभेदसंभित्रमन्त्राणां पदसंहतिः ॥४९॥

पदाध्वासौ पशुपतेः सिरामांसात्मना मतः ।
पृथिव्यादीनि षटिंत्रशत्तत्वान्यागमवेदिभिः ॥५०॥

उक्तान्यंईभिस्तत्त्वाध्वा शुक्लमज्जास्थिरूपधृक् ।
नास्यदेहेऽस्ति रुधिरं न मांसं नास्ति किञ्चन ॥५१॥

प्रतिबिम्बमिवादर्शे शक्रचापमिवाम्बरे ।
ज्योतिर्मयतया सिद्धमिदं सादाशिवं वपुः ॥५२॥

तथापि कल्पनामात्रं कलाव्याप्याध्वनामिदम् ।
ब्रह्मस्वीशेनमूर्धानः पुरुषेण चतुर्मुखी ॥५३॥

हृदयादीन्यघोरेण गुह्यादीनि च वामतः ।
सद्योजातेन मन्त्रेण पादादीनि जगत्पतेः ॥५४॥

पञ्चमन्त्रतनुः शम्भुरेवं कल्पनया भवेत् ।
ओंकारबीजप्रभवः कलापञ्चकसंयुतः ॥५५॥

शुद्धस्फटिकसंकाशः शुभमेधाविवर्धनः ।
सदाशिवात्मा व्योमस्थ ईशानः परिकीर्तितः ॥५६॥

गायत्रीप्रभवो मन्त्रः स्वर्ण्वर्णश्चतुष्कलः ।
वश्यकृद्गन्धवाहस्थः ईश्वरः पुरुषःस्मृत ॥५७॥

अथर्वप्रभवो मन्त्रः कलाष्टकविभूषितः ।
आभिचारकरोऽत्यर्थमञ्जनाद्गिसमप्रभः ॥५८॥

अशेषाघहरःपुंसामघोरो रुद्रविग्रहः ।
सामवेदोद्भवो मन्त्रस्त्रयोदशकलान्वितः ॥५९॥

वामदेवः प्रवालाभो वारितत्त्वस्थितो हरिः ।
यजुर्वेदोद्भवो मन्त्रः कलाष्टकयुतः सितः ॥६०॥

शान्तिकृत् पृथिवीसंस्थःसद्योजातः पितामहः ।
पञ्चवक्त्राः स्मृताः सर्वे दशदोर्दण्डभूषिताः ॥६१॥

ख्ड्गखेटधनुर्बाणकमण्डल्वक्षसूत्रिणः ।
वराभयोपेतकराः शूलपङ्कजपाणयः ॥६२॥

अघोरो घोर एतेषु तदन्ये सौ म्यविग्रहाः ।
एवं ध्यात्वा सदेशस्य पञ्चब्रह्मात्मतां विभोः ॥६३॥

तत्तद्वह्मकलाभेदैर्विविच्याङ्गादि कल्पयेत् ।
ईशानस्सर्वविद्यानामित्येषा शङ्खपाण्डरा ॥६४॥

धूर्जटेरूर्ध्वमूर्धासौ शशिन्या सहिता कला ।
ईश्वरः सर्वभूतानामित्येषा कुन्दसन्निभा ॥६५॥

शर्वस्य पूर्वमूर्धासौ श्क्त्या युक्ताङ्गदाख्यया ।
ब्रह्माधिपतिरित्यग्रे ब्रह्मणोऽधिपतिस्ततः ॥६६॥

ब्रह्मेत्येषा शशाङ्काभा सैषा मूर्धास्य दक्षिणः ।
शिवो मे अस्त्विति कला शुद्धस्फटिकभास्वरा ॥६७॥

महेशास्योत्तरो मूर्धा मरीचिरसवीचिका ।
सदाशिवोमिति कला गोक्षीरधवलाकृतिः ॥६८॥

शिवस्य पश्चिमो मूर्धा नलिनीमेलनोज्वला ।
कला तत्पुरुषायेति पूर्वा विद्मह इत्यसौ ॥६९॥

शान्तियुक्ता जपावर्णा पूर्ववक्त्रं पुरद्विषुः ।
महादेवाय पूर्वा या धीमहीति कला श्रुता ॥७०॥

सा विद्या सहिता कृष्णा दक्षिणं वक्त्रमीशितुः ।
कला प्रतिष्ठा सहिता तन्नोरुद्र इति श्रुता ॥ ७१॥

वक्त्रमुत्तरमीशस्य वर्णेन स्फटिकोपमा।
प्रचोदयादिति कला प्रतप्तकनकोपमा ॥७२॥

शिवस्य पश्चिमं वक्त्रं निवृत्या नित्यसंहिता ।
अघोरेभ्यः कला नीला हृदयन्तमया युता ॥७३॥

अथ घोरेभ्य इत्येषा रक्ता मोहा सखीगलः ।
पीता घोरकला स्कन्धो दक्षिणःक्षयया युता ॥७४॥

वामो निद्रायुता घोरतरेभ्य इति कीरभा ।
कुक्षिःसर्वेभ्य इत्येषा शुभ्राभा मायया युता ॥७५॥

नीला मृत्युयुता नाभिः सर्वेभ्यः शर्वरूपिणी ।
नमस्ते अस्तु रुद्रेति पृष्ठं रत्नाभया युता ॥७६॥

पक्षे रूपेभ्य इत्येषा सजरा काञ्चनप्रभा ।
वामदेवाय नम इत्येषा सिन्दूरसुन्दरी ॥७७॥

जरया सहिता याति मूलाधारा धरात्मताम् ।
लिङ्ग रक्षायुत्ता पीता ज्येष्ठाय नम इत्यसौ ॥७८॥

सव्योरुस्सरतिर्निला स्यद्रुद्राय नमःकला ।
पीता सबल्या वामोरूः कालाय नम इत्यसौ ॥७९॥

शुक्लाकला कला वामासहिता जानु दक्षिणम् ।
वामं विकरणायाऽथ नमः श्यामा ससंयंआ ॥८०॥

सक्रिया दक्षिणा जङ्घा नीला बलकला विभोः ।
वामा विकरणायाऽथ नमो बुद्धियुतारुणा ॥८१॥

विद्युद्वर्णा बलकला सव्यस्फिक्कार्ययायुता ।
वामः प्रमथनायाऽथ नमो धात्रीयुतासिता ॥८२॥

बालार्काभा सर्वभूतदमनाय नमःकला ।
भ्रामण्या धृतलावण्या कटिःकन्दर्पविद्विषः ॥८३॥

सव्यपार्श्वं मनकला नीलाभा मोहिनीयुता ।
उल्लसत्कीरपक्षाभा ह्युन्मनाय नमःकला ॥८४॥

मनोन्मनीयुतं ध्यायेत् वामपार्श्वं पिनाकिनः ।
सद्योजातं प्रपद्यामीत्येषा बालार्कसन्निभा ॥८५॥

कला सिद्धिसमायुक्ता धूर्जटेर्दक्षिणं पदम् ।
सद्योजाताय वै पूर्वा नम इत्यसिता कला ॥८६॥

ॠद्धिशक्तेः सहचरी वामं गौरीपतेः पदम्।
नील भवेकलाद्युक्ता सहिता दक्षिणःकरः ॥ ८७॥

नीला भवेकलाऽन्या तु वामो लक्ष्मीयुता करः ।
मेधा सहचरी नासा पीता नातिभवेकला ॥८८॥

भजस्व मामितिकला सकान्तिररुणा शिरः ।
नीला भवकला बाहुः दक्षिणः स्वधया युता ॥८९॥

उद्यदर्क कराभासामुद्भवाय नमः कलाम् ।
धृतिशक्तियुतां ध्यायेद्वामाबाहुं जगत्पतेः ॥९०॥

अष्टत्रिंशत्कलादेवाः त्रिणेत्राश्च चतुर्भुजाः ।
वराभयपरश्वेणविलसत्करपल्लवाः ॥९१॥

तत्तद्बह्मसमाकारवर्णायुधभृतोऽथ वा ।
एतेषां वामभागेषु विचिन्त्याः शक्तयस्त्विमाः ॥९२॥

पाशाङ्कुशाभयवरद्योतमानकराम्बुजाः ।
श्रीकण्ठप्रमुखान् रुद्रान् वर्णरूपान् सशक्तिकान् ॥९३॥

प्रभोरवयवान् ध्यायेद्वायुक्तान् न्यासवर्त्मना ।
स्मरेत् सशक्तिकान् रुद्रान् अर्धनारीश्वराकृतीन् ॥९४॥

सिन्दूरकाञ्चनप्रख्यवामदक्षिणपार्श्वकान् ।
पाशाङ्कुशाक्षवलयवरमुद्राविराजितान् ॥ ९५॥

प्रसन्नवक्त्रकमलान् विश्ववाञ्छितदायकान् ।
कामिकं पादकमलं योगजं गुल्फयोर्युगम् ॥९६॥

चिन्त्यं पदाङ्गुलीरूपं कारणं प्रसॄतिद्वयं ।
अजितं जानुनो युग्मं दीप्तमूरुद्वयं विभोः ॥९७॥

गुह्यं बीजात्मकं सूक्ष्मं सहस्रं तु कटीतटम।
पृष्ठभागोंशुमानस्य नाभिः श्रीसुप्रभेदकम् ॥९८॥

विजयं जठरं बाहुः निश्वासं हृदयात्मकम् ।
स्वायंभुवं स्तनद्वन्द्वमनलं लोचनत्रयं ॥९९॥

वीरागमःकण्ठदेशः रौरवं श्रवणद्वयं ।
मुकुटं मुकुटं तन्त्रं बाहवो विमलागमः ॥१००॥

चन्द्रज्ञानमुरः शम्भोर्बिम्बं वदनपङ्कजम् ।
जिह्वा प्रोद्गीतमीशस्य ललितं गण्डयोर्युगम् ॥१०१॥

सिद्धं ललाटफलकं सन्तानं कुण्डलद्वयं ।
यज्ञोपवीतं सर्वोक्तं हारस्त्रक् पारमेश्वरम् ॥१०२॥

किरणं रत्नभूषास्य वातुलं वसनात्मकम् ।
एवं तन्त्रात्मकं रूपमीश्वरस्य विचिन्तयेत् ॥१०३॥

शिवज्ञानप्रदं पुंसां शिवधर्मप्रवर्तकम् ।
प्रणवस्य च मात्राभिः वर्णेःपञ्चाक्षरस्य च ॥१०४॥

वदनांसोरुयुगलं कल्पयेदम्बिकापतेः ।
विशुद्ध्ं शिवसादाख्यं विद्युदृन्दमिवाम्बरे ॥१०५॥

विश्वतः स्फुरितं ज्योतिर्विद्यादूर्द्ध्वमुखं विभोः ।
अमूर्तमथ सादाख्यं मूलस्तम्भ इति श्रुतम् ॥१०६॥

ज्योतिस्तम्भमयं लिङ्गं स्मर्दस्योत्तरं मुखम् ।
ज्योतिर्लिङ्गैकभागोत्थमेकवक्त्रं त्रिलोचनम् ॥१०७

मूर्तं सादाख्यंइत्युक्तं ध्यायेत् पश्चिममाननम् ।
शूलं च परशुं वज्रमभीतिं दक्षिणैःकरैः ॥१०८

पाशं वह्निं च घण्टां च वरं वामैःकरैरपि ।
दधानं कर्तृसादाख्यं चतुर्वक्त्राम्बुजोज्ज्वलम् ॥१०९॥

लिङ्गमध्ये समुद्भूतं स्मरेद्दक्षिणमाननम् ।
पञ्चवक्त्रं दशभुजं पीठलिङ्गे समुद्गतम् ॥११०॥

प्रसिद्धं कर्मसादाख्यं पुरारेः पूरारेःपूर्वमाननम् ।
पञ्चब्रह्माण्यर्ध्व पूर्वदक्षिणोत्तरपश्चिमान् ॥१११॥

वक्त्रपद्मान् विभोर्ध्यायेदीशानप्रभृति प्रभोः ॥११२॥

सर्वज्ञतातृप्तिरनादिबोधः स्वतन्त्रता नित्यंअलुप्तशक्तिः ।
अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥११३॥

हृदयं हृदये शुभ्रं शिरःशिरसि पिङ्गलम् ।
शिखां शिखां पदे रक्तां कवचं पार्श्वयोः स्थितम् ॥११४॥

नेत्रेषु श्यामलं नेत्रं करेऽस्त्रमसितं स्मरेत् ।
चतुर्भुजास्त्रिणेत्राश्च जटामकुटमण्डिताः ॥११५॥

वराभये कपालं च शूलं च दधतः करैः।
अङ्गदेवाः स्मृताः सौ म्या नेत्रास्तेऽत्युग्रविग्रहे ॥११६॥

त्रिशूलं त्रिगुणं प्राहुः परशुः सत्यनिष्ठता ।
ख्ड्गःप्रतापो वज्रं तु शम्भोः शक्तिरभेद्यता ॥११७॥

वह्निःसंहारिणी शक्तिः शक्तिर्नागोऽप्रधृष्यता ।
मलमायाकर्मपाशो घण्टा नादस्वरूपिणी ॥११८॥

अभयं पालिनीशक्तिर्विवर्णं त्वङ्कुशं विदुः ।
एवं दशभुजश्चिन्त्यो दिव्यैर्दशभिरायुधैः ॥११९॥

जपकाले तु मन्त्रस्य ध्येयो देवश्चतुर्भुजः ।
वराभयपरश्वेणलसत्करसरोरुहः ॥१२०॥

वक्त्रेष्वीशानवक्त्रं यदूर्ध्वाशाभिमुखं सदा ।
पूजाकालेषु तत्पूजा द्वाराभिमुखतां व्रजेत् ॥१२१॥

द्वारभेदान्न भिद्यन्ते स्वस्वस्थानव्यवस्थया ।
अथवा मण्डपद्वारदिगादिपरितः क्रमात् ॥१२२॥

चत्वार्येतानि वक्त्राणि प्रादक्षिण्येन कल्पयेत् ।
एवं सदाशिवं ध्यात्वा निश्च्लेनान्तरात्मना ॥१२३॥

मन्त्रन्यासादिकं चैवं कृत्वा स्वस्यां तनौ यथा ।
मूर्तित्वेनैव संकल्प्य शिवस्य परमात्मनः ॥१२४॥

अभ्यर्च्य गन्धपुष्पाद्यैर्मनसैवोपपादितैः ।
तस्यां मूर्तो मूर्तिमन्तं शिवं सदसतःपरम् ॥१२५॥

प्राणस्थानं सदेशस्य चिन्तयेदम्बया सह ।
ब्रह्मा विष्णुश्च रुद्रश्च तथान्ये च सुरासुराः ॥१२६॥

तपोभिरुग्रैरद्यापि यस्य दर्शनकाङ्किणः ।
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ॥१२७॥

सहभूतेन्द्रियैःसर्वैः प्रथमं संप्रसूयते ।
कारणानां च यो धाता ध्याता परमकारणम् ॥१२८॥

न संप्रसूयतेऽन्यस्मात् कुतश्चन कदाचन ।
सर्वैश्वर्येण सम्पन्नः नाम्ना सर्वेश्वरः स्वयं ॥१२९॥

सर्वैर्मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः ।
सर्वोपरिकृतावासः सर्ववासश्च साश्वतः ॥१३०॥

षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः ।
उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ॥ १३१॥

अनन्तमहिमाम्भोधिरपरिच्छिन्नवैभवः ।
अशेषविषयामिघशुद्धबुद्धिविजृम्भणः ॥१३२॥

आत्मशक्त्यंऋतास्वादप्रमोदरसलालसः ।
अनन्तानन्दसन्दोहमकरन्दमधुव्रतः ॥१३३॥

अखण्डजगदण्डानां पिण्डीकरणपण्डितः ।
औदार्यवीर्यगाम्भीर्यंआधुर्यंअकरालयः ॥१३४॥

अतुलः सर्वभूतानां राजराजो महेश्वरः ।
अप्राकृतशरीरं तमतिमन्मथरूपिणम् ॥१३५॥

घृतरीतिघनीभूतसच्चिदानन्दविग्रहम् ।
सर्वलक्षणसम्पन्नं सर्वावयवशोभनम् ॥१३६॥

सर्वातोशयसंयुक्तं सर्वाभरणभूषणम् ।
रक्तास्यपाणिचरणं कुन्दमन्दस्मिताननम् ॥१३७॥

शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् ।
चतुर्भुजमुदाराङ्गं चारुचन्द्रकलाधरम् ॥ १३८॥

वरदाभयहस्तं च मृगटङ्कधरं हरम् ।
सर्वकल्याणनिलयं चारुनीलगलान्तरम् ॥१३९॥

सर्वोपमानरहितं सर्वात्मानं विचिन्तयेत् ।
ततः संचिन्तयेत्तस्य वामभागे महेश्वरीम् ॥१४०॥

उत्फुल्लोत्पलपत्राभविस्तीर्गायतलोचनाम् ।
पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्धजाम् ॥१४१॥

नीलोत्पलदलप्रख्यां चन्द्रार्ध्कृतशेखराम् ।
अतिवृत्तघनोत्तुङ्गस्त्रिग्धपीनपयोधराम् ॥१४२॥

तनुमध्यां पृयुश्रोणीं पीनसूक्ष्मोत्तराम्बराम् ।
सर्वाभरणसम्पन्नां ललाटतिलकोज्वलाम् ॥१४३॥

विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् ।
सर्वातीतगुणाकारां किञ्चिल्लज्जनताननाम् ॥१४४॥

काव्याकारस्फुरद्दिव्यनासामुक्ताफलाञ्चिताम् ।
हेमारविन्दं विलसद्दधानां दक्षिणे करे ॥१४५॥

दण्डवच्चापरं हस्तं न्यस्यासीनां सुखासने ।
पापविच्छेदिकां साक्षात् सच्चिदानन्दरूपिणीम् ॥१४६॥

सदाशिवेश्वरहरश्रीशदुहिणमातरम् ।
सनस्तगौरीवाण्यादिलक्ष्म्यादिपरिसेविताम् ॥१४७॥

एवं देवं च देवीं च ध्यात्वा तरुणविग्रहौ ।
सर्वोपचारवद्भक्त्या भावपुष्पैः समर्चयेत् ॥ १४८॥

एवं ध्यात्वा क्षणमहो अग्निष्टोमायुतात् फलम् ।
उमासहायं विश्वेशं ध्यात्वा प्राप्नोति मानवः ॥१४९॥

इत्याकलय्य शैवानि शास्त्राणि सकलान्यपि ।
उद्धृत्य तेभ्यः सारांशः संगृहीतो यथामतिः॥१५०॥

श्रीपतिध्येयपादाब्जश्रीशिवध्यानपद्धतिः ।
अनुसन्धीयतां प्राज्ञैरनुसन्ध्यंइयं मुदा ॥१५१॥

॥श्री साम्बशिवाय नमः ॥

॥श्रीमदप्पय्यदीक्षितेन्द्रविरचिता श्रीशिवाध्यानपद्धतिः सम्प्पूर्णा ॥

॥शिवाभ्यां नमः ॥

 

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana

ਪ੍ਰਦੋਸ਼ ਸ੍ਤੋਤ੍ਰਮ - Pradoshastotram