logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolगङ्गाधराष्टकम् श्रीमदप्पयदीक्षितविरचितम्Om symbol

Composer : Appayya Dikshita

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Srimad Appayya Dikshithar's Sri Gangadhara Ashtakam ॥श्री गङ्गाधराष्टकम् ॥ क्षीराम्भोनिधिमन्थनोद्भवविषात्सन्दह्यंआनान् सुरान् ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् । निश्शङ्कं निजलीलया कबळयन्लोकान् रक्षादरा दार्तत्राणपरायणः स भगवन्गङ्गाधरो मे गतिः ॥१॥ क्षीरं स्वादु निपीय मातुलगृहे ग्तवा स्वकीयं गृहं क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते । कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवा नार्तत्राणपसयणस्स भगवान्गङ्गाधरो मे गतिः ॥२॥ मृत्युं वक्षसि ताडयन्निजपदध्यानैकभक्तं मुनिं मार्कण्डेयंअपालयत्करुणया लिङ्गाद्विनिर्गत्य यः । नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं रथाङ्गन्ददावा र्तत्राणपरायणस्स भगवान्गङ्गाधरो मे गतिः ॥३॥ व्यूढं द्रोणजयद्रथादिरथिकैस्सैन्यं महात्कौरवं दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा । पार्थं रक्षितवानमोघविषयं दिव्यास्त्रमुद्बोधय त्रार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥४॥ बालं शैवकुलोद्भवं परिहसत्स्वज्ञातिपक्षाकुलं खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं धातुं समुद्यत्करम् । दृष्ट्वानम्यविरिञ्चिरम्यनगरे पूजां त्वदीयाम्भज न्नार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥५॥ सन्त्रस्तेषु पुरा सुरासुरभयादिन्द्रादिबृन्दारके ष्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् । रक्षन्यः कृपया समस्तविबुधान् जित्वा पुरारीन् क्षणा दार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥६॥ श्रौतस्मार्तपथो पराङ्मुखमपि प्रोद्यन्महापाताकं विश्वाधीशमपत्यंएव गतिरित्यालापवन्तं सकृत् । रक्षन्यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा ह्यार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥७॥ गाङ्गं वेगमवाप्य मान्यविबुधैस्सोढुं पुरा या चितो दृष्ट्वा भक्तभगीरथेन विनतो रुद्रो जटामण्डले । कारुण्यादवनीतले सुरनदीमापूरयन्पावनी मार्तत्राणपरायणः स भगवन्गङ्गाधरो मे गतिः ॥८॥ ॥इति श्रीमदप्पयदीक्षितविरचितं श्रीगङ्गाधराष्टकम् ॥

Related Content

मार्गसहायलिङ्ग स्तुतिः

श्रुति सूक्ति माला (हरदत्त)

शिव महिमकलिकास्तुतिः (अप्पय्य दीक्षित)

पञ्चभूत क्षेत्र पञ्चरत्नम् (अप्पय्य दीक्षित)

आत्मार्पणस्तुतिः (अप्पय्यदीक्षित विरचिता) उन्मत्त पञ्चाशत्