logo

|

Home >

Scripture >

scripture >

Marathi

श्रीकाशीविश्वनाथस्तोत्रम - Shri Kashivishvanatha Stotram

Shri Kashivishvanatha Stotram


श्री काशीविश्वनाथ स्तोत्रम

कण्ठे यस्य लसत्कराळगरळं गङ्गाजलं मस्तके 
वामाङ्गे गिरिराजराजतनया जाया भवानी सती । 
नन्दिस्कन्दगणाधिराजसहिता श्रीविश्वनाथप्रभुः 
काशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गळम ॥१॥ 

यो देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्वयक्षोरगै-
र्नागर्भूतलवासिभिर्द्विजवरैः संसेवितः सिद्धये । 
या गङ्गोत्तरवाहिनी परिसरे तीर्थैरसङ्ख्यैर्वृता 
सा काशी त्रिपुरारिराजनगरी देयात्सदा मङ्गळम ॥२॥ 

तीर्थानां प्रवरा मनोरथकरी संसारपारापरानन्दा 
नन्दिगणेश्वरैरुपहिता देवैरशेषैः स्तुता । 
या शंभोर्मणिकुण्डलैककणिका विष्णोस्तपोदीर्घिका 
सेयं श्रीमणिकर्णिका भगवती देयात्सदा मङ्गळम ॥३॥

एषा धर्मपताकिनी तटरुहासेवावसन्नाकिनी 
पश्यन्पातकिनी भगीरथतपःसाफल्यदेवाकिनी । 
प्रेमारूढपताकिनी गिरिसुता सा केकरास्वाकिनी 
काश्यामुत्तरवाहिनी सुरनदी देयात्सदा मङ्गळम ॥४॥ 

विघ्नावासनिवासकारणमहागण्डस्थलालम्बितः 
सिन्दूरारुणपुञ्जचन्द्रकिरणप्रच्छादिनागाच्छविः 
श्रीविश्वेश्वरवल्लभो गिरिजया सानन्दकानन्दितः 
स्मेरास्यस्तव ढुण्ढिराजमुदितो देयात्सदा मङ्गळम ॥५॥ 

केदारः कलशेश्वरः पशुपतिर्धर्मेश्वरो मध्यमो 
ज्येष्ठेशो पशुपश्च कन्दुकशिवो विघ्नेश्वरो जम्बुकः ।
चन्द्रेशो ह्यमृतेश्वरो भृगुशिवः श्रीवृद्धकालेश्वरो 
मध्येशो मणिकर्णिकेश्वरशिवो देयात्सदा मङ्गळम ॥६॥ 

गोकर्णस्त्वथ भारभूतनुदनुः श्रीचित्रगुप्तेश्वरो 
यक्षेशस्तिलपर्णसङ्गमशिवो शैलेश्वरः कश्यपः । 
नागेशोऽग्निशिवो निधीश्वरशिवोऽगस्तीश्वरस्तारक-
ज्ञानेशोऽपि पितामहेश्वरशिवो देयात्सदा मङ्गळम ॥ ७॥ 

ब्रह्माण्डं सकलं मनोषितरसै रत्नैः पयोभिर्हरं 
खेलैः पूरयते कुटुम्बनिलयान शंभोर्विलासप्रदा । 
नानादिव्यलताविभूषितवपुः काशीपुराधीश्वरी 
श्रीविश्वेश्वरसुन्दरी भगवती देयात्सदा मङ्गळम ॥८॥ 

या देवी महिषासुरप्रमथनी या चण्डमुण्डापहा
या शुम्भासुररक्तबीजदमनी शक्रादिभिः संस्तुता । 
या शूलासिधनुःशराभयकरादुर्गादिसन्दक्षिणा- 
माश्रित्याश्रितविघ्नशंसमयतु देयात्सदा मङ्गळम ॥ ९॥ 

आद्या श्रीर्विकटा ततस्तु विरजा श्रीमङ्गळा पार्वती 
विख्याता कमला  विशालनयना ज्येष्ठा विशिष्टानना । 
कामाक्षी च हरिप्रिया भगवती श्रीघण्टघण्टादिका 
मौर्या षष्टिसहस्रमातृसहिता देयात्सदा मङ्गळम ॥ १०॥ 

आदौ पञ्चनदं प्रयागमपरं केदारकुण्डं कुरु-
क्षेत्रं मानसकं सरोऽमृतजलं शावस्य तीर्थं परम । 
मत्स्योदर्यथ दण्डखाण्डसलिलं मन्दाकिनी जम्बुकं 
घण्टाकर्णसमुद्रकूपसहितो देयात्सदा मङ्गळम ॥ ११॥

रेवाकुण्डजलं सरस्वतिजलं दुर्वासकुण्डं ततो 
लक्ष्मीतीर्थलवाङ्कुशस्य सलिलं कन्दर्पकुण्डं तथा । 
दुर्गाकुण्डमसीजलं हनुमतः कुण्डप्रतापोर्जितः 
प्रज्ञानप्रमुखानि वः प्रतिदिनं देयात्सदा मङ्गळम ॥१२॥ 

आद्यः कूपवरस्तु कालदमनः श्रीवृद्धकूपोऽपरो 
विख्यातस्तु पराशरस्तु विदितः कूपः सरो मानसः । 
जैगीषव्यमुनेः शशाङ्कनृपतेः कूपस्तु धर्मोद्भवः 
ख्यातः सप्तसमुद्रकूपसहितो देयात्सदा मङ्गळम ॥१३॥ 

लक्ष्मीनायकबिन्दुमाधवहरिर्लक्ष्मीनृसिंहस्ततो 
गोविन्दस्त्वथ गोपिकाप्रियतमः श्रीनारदः केशवः 
गङ्गाकेशववामनाख्यतदनु श्वेतो हरिः केशवः 
प्रह्लादादिसमस्तकेशवगणो देयात्सदा मङ्गळम ॥१४॥  

लोलार्कोविमलार्कमायुखरविः संवर्तसञ्ज्ञो 
रविर्विख्यातो द्रुपदुःखस्वोल्कमरुणः प्रोक्तोत्तरार्को रविः । 
गङ्गार्कस्त्वथ वृद्धवृद्धिविबुधा काशीपुरीसंस्थिताः 
सूर्या द्वादशसंज्ञकाः प्रतिदिनं देयात्सदा मङ्गळम ॥ १५॥

आद्यो ढुण्ढिविनायको गणपतिश्चिन्तामणिः सिद्धिदः 
सेनाविघ्नपतिस्तु वक्त्रवदनः श्रीपाशपाणिः प्रभुः । 
आशापक्षविनायकाप्रषकरो मोदादिकः षड्गुणो 
लोलार्कादिविनायकाः प्रतिदिनं देयात्सदा मङ्गळम ॥१६॥ 

हेरम्बो नलकूबरो गणपतिः श्रीभीमचण्डीगणो 
विख्यातो मणिकर्णिकागणपतिः श्रीसिद्धिदो विघ्नपः। 
मुण्डश्चण्डमुखश्च कष्टहरणः श्रीदण्डहस्तो गणः 
श्रीदुर्गाख्यगणाधिपः प्रतिदिनं देयात्सदा मङ्गळम ॥१७॥ 

आद्यो भैरवभीषणस्तदपरः श्रीकालराजः क्रमा- 
च्छ्रीसंहारकभैरवस्त्वथ रुरुश्चोन्मत्तको भैरवः । 
क्रोधश्चण्डकपालभैरववरः श्रीभूत नाथादयो 
ह्यष्टौ भैरवमूर्तयः प्रतिदिनं देयात्सदा मङ्गळम ॥१८॥ 

आधातोऽम्बिकया सह त्रिनयनः सार्धं गणैर्नन्दितां 
काशीमाशु विशन हरः प्रथमतो वार्षध्वजेऽवस्थितः । 
आयाता दश धेनवः सुकपिला दिव्यैः पयोभिर्हरं 
ख्यातं तद्वृषभध्वजेन कपिलं देयात्सदा मङ्गळम ॥ १९॥ 

आनन्दाख्यवनं हि चम्पकवनं श्रीनैमिषं खाण्डवं 
पुण्यं चैत्ररथं त्वशाकविपिनं रम्भावनं पावनम । 
दुर्गारण्यमथोऽपि कैरववनं वृन्दावनं पावनं 
विख्यातानि वनानि वः प्रतिदिनं देयात्सदा मङ्गळम ॥२०॥

अलिकुलदलनीलः कालदंष्ट्राकराळः  
सजलजलदनीलो व्यालयज्ञोपवीतः । 
अभयवरदहस्तो डामरोद्दामनादः 
सकलदुरितभक्षो मङ्गळं वो ददातु ॥ २१॥ 

अर्धाङ्गे विकटा गिरिन्द्रतनयो गौरी सती सुन्दरी 
सर्वाङ्गे विलसद्विभूतिधवळो कालो विशालेक्षणः 
वीरेशः सहनन्दिभृङ्गिसहितः श्रीविश्वनाथः प्रभुः 
काशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गळम ॥२२॥  

यः प्रातः प्रयतः प्रसन्नमनसा प्रेमप्रमोदाकुलः 
ख्यातं तत्र विशिष्टपादभुवनेशेन्द्रादिभिर्यत्स्तुतम । 
प्रातः प्राङ्मुखमासनोत्तमगतो ब्रुयाच्छृणोत्यादरात 
काशीवासमुखान्यवाप्य सततं प्रीते शिवे धूर्जटिः ॥२३॥ 

इति श्रीमच्छङ्कराचार्यविरचितं काशीविश्वनाथस्तोत्रं संपूर्णम ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram