logo

|

Home >

Scripture >

scripture >

Marathi

हिमालयकृतं शिवस्तोत्रम - Himalaya Krutam Shiva Stotram

Himalaya Krutam Shiva Stotram


हिमालय कृतं शिव स्तोत्रम हिमालय उवाच ॥ त्वं ब्रह्मा सऋष्टिकर्ता च त्वं विष्णुः परिपालकः । त्वं शिवः शिवदोऽनन्तः सर्वसंहारकारकः ॥१॥ त्वमीश्वरो गुणातीतो ज्योतीरूपः सनातनः प्रकृतः प्रकृतीशश्च प्राकृतः प्रकृतेः परः ॥२॥ नानारूपविधाता त्वं भक्तानां ध्यानहेतवे । येषु रूपेपु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥३॥ सूर्यस्त्वं सृष्टिजनक आधारः सर्वतेजसाम । सोमस्त्वं सस्यपाता च सततं शीतरश्मिना ॥४॥ वायुस्त्वं वरुणस्त्वं च विद्वांश्च विदुषां गुरुः । मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः ॥५॥ वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः । विदुषां जनकस्त्वं च विद्वांश्च विदुषां गुरुः ॥६॥ मन्त्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः । वाक त्वं रागाधिदेवी त्वं तत्कर्ता तद्गुरुः स्वयम ॥७॥ अहो सरस्वतीबीज  कस्त्वां स्तोतुमिहेश्वरः । इत्येवमुक्त्वा शैलेन्द्रस्तस्थौ धृत्वा पदांबुजम ॥८॥ तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः । स्तोत्रमेतन्महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥९॥ मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे । अपुत्रो लभते पुत्रं मासमेकं पठेद्यदि ॥१०॥ भार्याहीनो लभेद्भार्यां सुशीलां सुमनोहराम । चिरकालगतं वस्तु लभते सहसा ध्रुवम ॥११॥ राज्यभ्रष्टो लभेद्राज्यं शङ्करस्य प्रसादतः । कारागारे श्मशाने च शत्रुग्रस्तेऽतिसङ्कटे ॥१२॥ गभीरेऽतिजलाकीर्णे भग्नपोते विषादने । रणमध्ये महाभीते हिंस्रजन्तुसमन्विते ॥१३॥ यः पठेच्छ्रद्धया सम्यक स्तोत्रमेतज्जगद्गुरोः । सर्वतो मुच्यते स्तुत्वा शङ्करस्य प्रसादतः ॥१४॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे हिमालयकृतं शिवस्तोत्रं संपूर्णम ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram